श्रुतिस्मृतिपुराणोक्तधर्ममार्गरतं गुरुम् । भक्तानां हितवक्तारं नमस्ते चित्तशुद्धये ॥
For Vidhi,
Email:- info@vpandit.com
Contact Number:- 1800-890-1431
श्रुतिस्मृतिपुराणोक्तधर्ममार्गरतं
गुरुम् ।
भक्तानां हितवक्तारं
नमस्ते चित्तशुद्धये ॥ १॥
अद्वैतानन्दभरितं साधूनामुपकारिणम् ।
सर्वशास्त्रविदं शान्तं
नमस्ते चित्तशुद्धये ॥ २॥
धर्मभक्तिज्ञानमार्गप्रचारे बद्धकङ्कणम् ।
अनुग्रहप्रदातारं नमस्ते
चित्तशुद्धये ॥ ३॥
भगवत्पादपादाब्जविनिवेशितचेतसः ।
श्रीचन्द्रशेखरगुरोः
प्रसादो मयि जायताम् ॥ ४॥
क्षेत्रतीर्थकथाभिज्ञः सच्चिदानन्दविग्रहः ।
चन्द्रशेखरवर्यो मे
सन्निधत्ता सदा हृदि ॥ ५॥
पोषणे वेदशास्त्राणां दत्तचित्तमहर्निशम् ।
क्षेत्रयात्रारतं वन्दे
सद्गुरुं चन्द्रशेखरम् ॥ ६॥
वेदज्ञान् वेदभाष्यज्ञान् कर्तुं यस्य समुद्यमः ।
गुरुर्यस्य महादेवः तं
वन्दे चन्द्रशेखरम् ॥ ७॥
मणिवाचकगोदादि भक्तिवागमृतैर्भृशम् ।
बालानां भगवद्भक्तिं
वर्धयंतं गुरुं भजे ॥ ८॥
लघूपदेशैर्नास्तिक्यभावमर्दन कोविदम् ।
शिवं स्मितमुखं शान्तं
प्रणतोऽस्मि जगद्गुरुम् ॥ ९॥
विनयेन प्रार्थयेऽहं विद्यां बोधय मे गुरो ।
मार्गमन्यं न जानेऽहं
भवन्तं शरणं गतः ॥ १०॥
Write a public review